|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.159. अध्यायः 159
Mahabharata - Vana Parva - Chapter Topics
जटासुरवधानन्तरं सपरिवारेण युधिष्ठिरेण नरनारायणाश्रमे निवासः ॥ 1 ॥ ततो वृषपर्वाश्रमादिषु सुखेन संचरणम् ॥ 2 ॥ तत आर्ष्टिषेणाश्रमगमनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-159-0x(2290)(21953)
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्।
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥ 3-159-1(21954)
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः।
द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम् ॥ 3-159-2(21955)
समाश्चतस्रोऽभिगताः शिवेन चरतां वने।
कृतोद्देशः स बीभत्सुऋ पञ्चमीमभितः समाम् ॥ 3-159-3(21956)
प्राप्य पर्वतराजानं श्वेतं शिखरिणांवरम्।
[पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलाषट्पदैः ॥ 3-159-4(21957)
मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्।
व्याघ्रैर्वरहैर्महिषैर्गवयैर्हरिणैस्तथा ॥ 3-159-5(21958)
श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्।
फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः ॥ 3-159-6(21959)
प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि।
महापुणअयं पवित्रं च सुरासुरनिषेवितम्।]
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ 3-159-7(21960)
कृतश्च समयस्तेन पार्थेनामिततेजसा।
पञ्चवर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि ॥ 3-159-8(21961)
अत्रगाण्डीवधन्वानमवाप्तास्त्रमरिंदमम्।
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥ 3-159-9(21962)
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः।
कारणं चैव तत्तेवामाचचक्षे तपस्विनाम् ॥ 3-159-10(21963)
तमुग्रतपसः प्रीताः कुत्वापार्थं प्रदक्षिणम्।
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥ 3-159-11(21964)
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ।
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥ 3-159-12(21965)
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्।
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः ॥ 3-159-13(21966)
`द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तदा'।
राक्षसैरनुयातो वै लोमशेनाभिरक्षितः ॥ 3-159-14(21967)
क्वचित्पद्भ्यां ततोऽगच्छद्राक्षसैरुदह्यते क्वचित्।
तत्रतत्र महातेजा भ्रातृभिः सह सुव्रतः ॥ 3-159-15(21968)
ततो युधिष्ठिरो राजा बहुन्क्लेशान्विचिन्तयन्।
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥ 3-159-16(21969)
अवेमाण कैलासं मैनाकं चैव पर्वतम्।
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥ 3-159-17(21970)
उपर्युपरि शैलस्य बहीश्च सरितः शिवाः।
पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥ 3-159-18(21971)
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकम्।
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते ॥ 3-159-19(21972)
सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः।
समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥ 3-159-20(21973)
तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः।
पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः ॥ 3-159-21(21974)
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान्।
पूजिताश्चावसंस्तत्रसप्तरात्रमरिंदमाः ॥ 3-159-22(21975)
अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम्।
आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन् ॥ 3-159-23(21976)
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि।
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्।
पारिबर्हं चतं शेषं परिदाय महात्मने ॥ 3-159-24(21977)
ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च।
न्यदधुःपाण्डवा राजन्नाश्रमे वृषपर्वणः ॥ 3-159-25(21978)
अतीतानागते विद्वान्कुशलः सर्वधर्मवित्।
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥ 3-159-26(21979)
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्।
`कुष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः 3-159-27(21980)
तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतीन्।
उपन्यस् महातेजा विप्रेभ्यः पाण्डवांस्तदा ॥ 3-159-28(21981)
अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च।
वृषपर्वा निववृतेपन्थानमुपदिश्य च ॥ 3-159-29(21982)
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः।
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥ 3-159-30(21983)
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु।
पर्वतं विविशुस्ते तं चतुर्थेऽहनि पाण्डवाः ॥ 3-159-31(21984)
महाभ्रघनसंकाशं सलिलोपहितं शुभम्।
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥ 3-159-32(21985)
`रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम्।
शिलाविभङ्गविकटं लतापादपसङ्कुलम्' ॥ 3-159-33(21986)
ते समासाद्यपन्थानं यतोक्तं वृषपर्वणा।
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ॥ 3-159-34(21987)
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः।
सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥ 3-159-35(21988)
धौम्यः कृष्णा च पार्ताश्च लोमशश्च महानृषिः।
आगच्छन्सहितास्तत्रन कश्चिदपि हीयते ॥ 3-159-36(21989)
ते मृगद्विजसंघुष्टं नानाद्रुमलतायुतम्।
शाखामृगगणैश्चैव सेवितं सुमनोरमम् ॥ 3-159-37(21990)
पुण्यं पद्मसरोपेतं सपल्वलमहावनम्।
उपतस्थुर्महाभागा माल्यवतं महागिरिम् ॥ 3-159-38(21991)
ततः किंपुरुषावासं सिद्धचारणसेवितम्।
ददृशुर्हृषरोमाणाः पर्वतं गन्धमादनम् ॥ 3-159-39(21992)
विद्याधरानुचरितं किन्नरीभिस्तथैव च।
गजसङ्घसमावासं सिंहव्याघ्रगणायुतम् ॥ 3-159-40(21993)
शरभोन्नादसंघुष्टं नानमृगनिषेवितम् ॥ 3-159-41(21994)
ते गन्धमादनवनं तन्नन्दनवनोपमम्।
मुदिताः पाण्डुतनया मनोनयननन्दनम् ॥ 3-159-42(21995)
विविशुः क्रमशो वीरा अरण्यं शुभकाननम्।
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ॥ 3-159-43(21996)
शृण्वन्तः प्रीतिजननान्वल्गून्मन्दकलाञ्शुभान्।
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ 3-159-44(21997)
सर्वर्तुफलभाराञ्यान्सर्वर्तुकुसुमोज्ज्वलाम्।
पश्यन्तः पादपांस्चापि फलभारावनामितान् ॥ 3-159-45(21998)
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान्।
मुञ्जातकांस्तथाञ्जीरान्दाडिमान्बीजपूरकान् ॥ 3-159-46(21999)
पनसाँल्लिकुचान्मोचाः खर्जूरानम्लवेतसान्।
परावतांस्तथा क्षौद्रानीपांश्चापि मनोरमान् ॥ 3-159-47(22000)
बेल्वान्कपित्थाञ्जम्बूश्च काश्मरीर्ब्रदरीस्तथा।
पुक्षानुदुम्बरवटानश्वत्थान्क्षीरिकास्तथा ॥ 3-159-48(22001)
मल्लातकानामलकीर्हरीतकबिभीतकान्।
इङ्गुदान्करमर्दांश्च तिन्दुकांश् महाफलान् ॥ 3-159-49(22002)
एतानन्यांश्च विविधान्गन्धमादनसानुषु।
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरूपन् ॥ 3-159-50(22003)
तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा।
पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान्।
पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥ 3-159-51(22004)
पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा।
पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा।
शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा ॥ 3-159-52(22005)
चकोरैः शतपत्रैश् भृङ्गराजैस्तथा शुकैः।
कोकिलैः कलविङ्कैश्च हारितैर्जीवजीवकैः ॥ 3-159-53(22006)
प्रियकैश्चातकैश्चैव तथाऽन्यैर्विविधैः खगैः।
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥ 3-159-54(22007)
सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः।
कुमुदैः पुण्डरीकैश्च तृथा कोकनदोत्पलैः।
कहारैः कमलैश्चैव आचितानि समन्ततः ॥ 3-159-55(22008)
कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः।
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ॥ 3-159-56(22009)
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः।
हृष्टैस्तथा तामरसरसासवमदालसैः ॥ 3-159-57(22010)
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः।
मञ्जुस्वरैर्मधुकरैर्विरुतान्कमलाकरान् ॥ 3-159-58(22011)
अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु।
तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः ॥ 3-159-59(22012)
शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च।
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥ 3-159-60(22013)
कृत्वैव केकामधुरं संगीतं मधुरस्वरम्।
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ॥ 3-159-61(22014)
मयूरान्ददृशुर्हृष्टान्नृत्यतो वनलालसान्।
कांश्चित्प्रियाभिः सहितान्रममाणान्कलापिनः ॥ 3-159-62(22015)
वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा।
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव ॥ 3-159-63(22016)
कलापरुचिराटोपनिचितान्मुकुटानिव।
विवरेषु तरूणां च रुचिरान्ददृशुश्च ते ॥ 3-159-64(22017)
सिन्धुवारांस्तथोदारान्मन्मथस्येव तोमरान्।
सुवर्णवर्णकुसुमान्गिरीणां सिखरेषु च।
कर्णिकारान्विकसितान्कर्णपूरानिवोत्तमान् ॥ 3-159-65(22018)
तथाऽपश्यन्कुरबकान्वनराजिषु पुष्पितान्।
कामवश्यौत्सुक्यकरान्कामस्येव शरोत्करान् ॥ 3-159-66(22019)
तथैव वनराजीनामुदारान्रचितानिव।
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ॥ 3-159-67(22020)
तथानङ्गशराकारान्सहकारान्मनोरमान्।
अपश्यन्भ्रामरान्राजन्मञ्जरीभिर्विराजितान् ॥ 3-159-68(22021)
हिरण्यसदृशैः पुष्यैर्दावाग्निसदृशैरपि।
लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि।
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ 3-159-69(22022)
तथा सालांस्तमालांश्च पाटलाबकुलानपि।
माला इव समासक्ताः शैलानां शिखरेषु च ॥ 3-159-70(22023)
विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः।
कलहंसैरुपेतानि सारसाभिरुतानि च ॥ 3-159-71(22024)
सरांसि बहुशः पार्था पश्यन्तः शैलसानुषु।
पद्मोत्पलविमिश्राणि सुखशीतजलानि च ॥ 3-159-72(22025)
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः।
गन्वन्त्यथ माल्यानि रसवन्ति फलानि च ॥ 3-159-73(22026)
सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान्।
विविशुः पाण्डवाः सर्वेविस्मयोत्फुल्ललोचनाः ॥ 3-159-74(22027)
कमलोत्पलकह्लारपुण्डरीकसुगन्धिना।
सेव्यमाना वने तस्मन्सुखस्पर्शेन वायुना ॥ 3-159-75(22028)
ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः।
अहो श्रीमदिदं भीम गन्धमादनकाननम् ॥ 3-159-76(22029)
वने ह्मस्मिन्मनोरम्ये दिव्या काननजा द्रुमाः।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः।
भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः ॥ 3-159-77(22030)
नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः।
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ 3-159-78(22031)
भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः।
विलोड्यमाना पश्येमाः करिभिः सकरेणुभिः ॥ 3-159-79(22032)
पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम्।
स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम् ॥ 3-159-80(22033)
नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे।
उपगीयमाना भ्रमरै राजन्ते वनराजयः ॥ 3-159-81(22034)
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः।
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥ 3-159-82(22035)
लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः।
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥ 3-159-83(22036)
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्।
नदतां शृणु निर्घोषं भीम पर्वतसानुषु ॥ 3-159-84(22037)
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः।
पत्रिणः पुष्पितानेतान्संपतन्ति महाद्रुमान् ॥ 3-159-85(22038)
रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः।
परस्परमुदीन्ते बहवो जीवजीवकाः ॥ 3-159-86(22039)
हरितारुणवर्णानां शाड्वलानां समीपतः।
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥ 3-159-87(22040)
वदन्ति मधुरा वाचः सर्वभूतमनोरमाः।
भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्रिणः ॥ 3-159-88(22041)
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः।
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥ 3-159-89(22042)
बहुतालसमुत्सेघाः शैलशृङ्गपरिच्युताः।
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च ॥ 3-159-90(22043)
भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः।
शोभयन्ति महाशैलं नानारजतधातवः ॥ 3-159-91(22044)
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः।
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥ 3-159-92(22045)
मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः।
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ॥ 3-159-93(22046)
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः।
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥ 3-159-94(22047)
गन्धर्वाः सह कान्ताभिर्यथेष्टं भीमविक्रमाः।
दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह ॥ 3-159-95(22048)
गीतानां समतालानां तथासाम्नां च निःखनः।
श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥ 3-159-96(22049)
महागङ्गामुदीक्षख पुण्यां देवनदीं शुभाम्।
कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् ॥ 3-159-97(22050)
धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः।
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ॥ 3-159-98(22051)
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः।
उपेतं पश्य कौन्तेय शैलराजमरिंदम ॥ 3-159-99(22052)
वैशम्पायन उवाच। 3-159-100x(2291)
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम्।
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः ॥ 3-159-100(22053)
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः।
आर्ष्टिपेणस् राजर्षेराश्रमं ददृशुस्तदा ॥ 3-159-101(22054)
ततस्ते तिग्मतपसं कृशं धमनिसंततम्।
पारगं सर्वविद्यानामार्ष्टिषेणमुपागमन् ॥ 3-159-102(22055)
इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-159-2 जयं अर्जुनम् ॥ 3-159-3 कृतोद्देशः पञ्चमे वर्षे मयाऽवश्यमागन्तव्यमिति कृतसंकेतः ॥ 3-159-4 श्वेतं कैलासम् ॥ 3-159-7 तत्रापि देशे अस्माभिरिति शेषः। उद्देशः कृतः। संधिरार्षः ॥ 3-159-12 सुखोदर्कं सुखोदयम् ॥ 3-159-28 उपन्यस्य निवेद्य ॥ 3-159-29 अनुसंसार्य अनुगम्य ॥ 3-159-57 तामरसानां रसएव आसवो मद्यं तज्जेन मदेन अलसाः ॥ 3-159-58 विरुतान्विशिष्टशब्दयुतान् ॥ 3-159-63 कुटजेषु वृक्षविशेषेषु। वल्लीनां रलताप्रतानानि तैः संकटेषु कुञ्जीकृतेषु॥ 3-159-65 सिंधुवारान् पद्मविशेषान् ॥ 3-159-66 कामवश्यानां नराणामौत्मुक्यकरान् ॥ 3-159-76 हे भीम ॥ 3-159-80 नलिनीं सरसीम्। कमलोत्पलयोरवान्तरजातिभेदः। विग्रहवतीं शरीरवतीम् ॥ 3-159-81 तस्य शैलस्य ॥ 3-159-88 भृङ्गराजादयः पक्षिविशेषाः ॥ 3-159-89 चतुर्विषाणाश्चतुर्दन्ताः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|